|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.55. अध्यायः 055
Mahabharata - Vana Parva - Chapter Topics
दमयन्तीस्वयंवरादनन्तरं दिवं गच्छतामिन्द्रादीनां मध्येमार्गं कलिद्वापरयोर्दर्शनम् ॥ 1 ॥ तैः स्वयंवरे दमयन्त्या नलवरणं निवेदितेन द्वापरद्वितीयेन कलिना नलपराभवप्रतिज्ञानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-55-0x(1924)(17978)
वृते तु नैषधे भैम्या लोकपाला महौजसः।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥ 3-55-1(17979)
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥ 3-55-2(17980)
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ॥ 3-55-3(17981)
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः।
वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥ 3-55-4(17982)
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥ 3-55-5(17983)
देवानां मानुषं मध्ये यत्सा पतिमविन्दत।
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ 3-55-6(17984)
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः।
अस्माभिः सभनुज्ञाते दमयन्त्या नलो वृतः ॥ 3-55-7(17985)
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम्।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥ 3-55-8(17986)
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः ॥ 3-55-9(17987)
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥ 3-55-10(17988)
एवंरूपं नलं यो वै कामयेच्छपितुं कले।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ॥ 3-55-11(17989)
एवंगुणं नलं यो वै कामयेच्छपितुं कले।
कृच्छ्रे स नरके मञ्जेदगाधे विपुले ह्रदे ॥ 3-55-12(17990)
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः।
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ॥ 3-55-13(17991)
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर।
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ॥ 3-55-14(17992)
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि।
`मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि' ॥ 3-55-15(17993)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-55-4 निर्वृत्तः समाप्तः ॥ 3-55-7 अस्माभिः समनुज्ञातो दमयन्त्येति क. ध. पाठः ॥ 3-55-9 धर्मवादी दृढव्रतं इति क. पाठः ॥ 3-55-10 शौचं दया क्षमेति क. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|